यजुर्वेदYajurvedaTS 7.5.3
प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्यां वै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं वै साप॑राभ्यां॒ दोहा᳚भ्यां दु॒हेऽथ॒ कुतः॒ सा धो᳚क्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ संवथ्स॒रं सं॒ पाद्यो᳚त्त॒मे मा॒सि स॒कृत्पृ॒ष्ठान्युपे॑यु॒स्तद्यज॑माना य॒ज्ञं प॒शूनव॑ रुंधते समु॒द्रं वा १० ए॒तेऽ॑नवा॒रम॑पा॒रं प्र प्ल॑वन्ते॒ ये सं॑वथ्स॒रमु॑प॒यन्ति॒ यद्बृ॑हद्रथंत॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक्तदनु॑थ्सर्गं बृहद्रथंत॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठां ग॑च्छन्ति॒ सर्वे᳚भ्यो॒ वै कामे᳚भ्यः सं॒धिर्दु॑हे॒ तद्यज॑मानाः॒ सर्वा॒न्कामा॒नव॑ रुंधते स॒मु॒द्रं वै चतु॑स्त्रिंशच्च