यजुर्वेदYajurvedaTS 7.5.4

अनुवाक 4Anuvaka 4

  1. १

    स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒थ्साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यं मनुष्यलो॒कं प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीं॒ वै छन्दां॑सि प्र॒त्यव॑रोहन्त्याग्रय॒णं ग्रहा॑ बृ॒हत्पृ॒ष्ठानि॑ त्रयस्त्रिं॒॒श२ं स्तोमा॒स्तस्मा॒ज्ज्यायां॑सं॒ कनी॑यान्प्र॒त्यव॑रोहति वैश्वकर्म॒णो गृ॑ह्यते॒ विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुंधत आदि॒त्यो १२ गृ॑ह्यत इ॒यं वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्यो᳚ऽन्यो गृह्येते मिथुन॒त्वाय॒ प्रजा᳚त्या अवान्त॒रं वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒तां ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्तिः॑ आ॒दि॒त्यस्तस्यै॒व द्वे च॑