यजुर्वेदYajurvedaTS 7.5.2

अनुवाक 2Anuvaka 2

  1. १

    गावो॒ वा ए॒तथ्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि॒ सिषा॑सन्ती॒स्तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒थ्स्मोत्ति॑ष्ठा॒माव॒ तं काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्धा वा॒ याव॑ती॒र्वासा॑महा ए॒वेमौ द्वा॑द॒शौ मासौ॑ संवथ्स॒रं सं॒ पाद्योत्ति॑ष्ठा॒मेति॒ तासां᳚ ८ द्वाद॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आ᳚र्ध्नुव॒न्॒, याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्॒ याश्चोर्ज॑म॒वारुं॑धत॒र्ध्नोति॑ द॒शसु॑ मा॒सू᳚त्तिष्ठ॑न्नृ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वं वेद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन्तद्वा ए॒तदृ॒द्धमय॑नं॒ तस्मा॑दे॒तद्गो॒सनि॑

  2. २

    ति॒ष्ठा॒मेति॒ तासां॒ तस्मा॒द्द्वे च॑