यजुर्वेदYajurvedaTS 7.5.24
अनुवाक 24Anuvaka 24
- १
ये ते॒ पन्था॑नः सवितः पू॒र्व्यासोऽ॑रे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे ।तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ॥ नमोऽ॒ग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवे᳚ऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमः॒ सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि ये ते॒
- २
चतु॑श्चत्वारिंशत्