यजुर्वेदYajurvedaTS 7.5.23
अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒द्यथा॒ग्निः पृ॑थि॒व्या स॒मन॑मदे॒वं मह्यं॑ भ॒द्राः संन॑तयः॒ सं न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑क्षाय॒ सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑क्षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒ सूऱ्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नक्ष॑त्रेभ्यः॒ सम॑नम॒द्यथा॑ च॒न्द्रमा॒ नक्ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्यः सम॑नम॒द्यथा॒ ५१ वरु॑णोऽ॒द्भिः साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नमत्क्ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ क्ष॒त्रेण॒ राज्ञे॒ सम॑नमद्वि॒शे सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑य॒ सम॑नम॒दश्वे᳚भ्यः॒ सम॑नम॒द्यथा॒ रथोऽश्वै᳚ः प्र॒जाप॑तये॒ सम॑नमद्भू॒तेभ्यः॒ सम॑नम॒द्यथा᳚ प्र॒जाप॑तिर्भू॒तैः स॒मन॑मदे॒वं मह्यं॑ भ॒द्राः संन॑तयः॒ सं न॑मन्तु ॥ ७। ५। २३॥ अ॒द्भ्यः सम॑नम॒द्यथा॒ मह्यं॑ च॒त्वारि॑ च