यजुर्वेदYajurvedaTS 7.5.25

अनुवाक 25Anuvaka 25

  1. १

    यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ शीर्ष॒ण्वान्मेध्यो॑ भवत्यु॒षा वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्रं॒ दिशः॒ पादा॑ अवान्तरदि॒शाः पर्श॑वोऽहोरा॒त्रे नि॑मे॒षो᳚ऽर्धमा॒साः पर्वा॑णि॒ मासा᳚ः सं॒धाना᳚न्यृ॒तवोऽङ्गा॑नि संवथ्स॒र आ॒त्मा र॒श्मयः॒ केशा॒ नक्ष॑त्राणि रू॒पं तार॑का अ॒स्थानि॒ नभो॑ मां॒॒सान्योष॑धयो॒ लोमा॑नि॒ वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुखं॑ वैश्वान॒रो व्यात्तं॑ ५४ समु॒द्र उ॒दर॑म॒न्तरि॑क्षं पा॒युर्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेपः॒ सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तथ्स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑र्षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता᳚ज्जायते॒ रात्रि॑रेनं महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒वश्व॑म॒भितः॒ सं ब॑भूवतु॒र्॒हयो॑ दे॒वान॑वह॒दर्वासु॑रान्, वा॒जी ग॑न्ध॒र्वानश्वो॑ मनु॒ष्या᳚न्थ्समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रः (समु॒द्रो बन्धुः॑ - संप्रदायदल्लि हेळुवुदिल्ल) व्यात्त॑मवह॒द्द्वाद॑श च