यजुर्वेदYajurvedaTS 7.5.19

अनुवाक 19Anuvaka 19

  1. १

    आक्रान्॑, वा॒जी पृ॑थि॒वीम॒ग्निं युज॑मकृत वा॒ज्यर्वाक्रान्॑, वा॒ज्य॑न्तरि॑क्षं वा॒युं युज॑मकृत वा॒ज्यर्वा॒ द्यां वा॒ज्याक्रग्ग्॑स्त॒ सूर्यं॒ युज॑मकृत वा॒ज्यर्वा॒ग्निस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय वा॒युस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं ४६ पा॑रयादि॒त्यस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय प्राण॒धृग॑सि प्रा॒णं मे॑ दृंह व्यान॒धृग॑सि व्या॒नं मे॑ दृंहापान॒धृग॑स्यपा॒नं मे॑ दृंह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्रं॒ मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि वा॒युस्ते॑

  2. २

    वाजि॒न्॒, युङ्ङनु॒ त्वाऽर॑भे स्व॒स्ति मा॒ सन्त्रिच॑त्वारिंशच्च