यजुर्वेदYajurvedaTS 7.5.18
आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मास्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर्वोढा॑न॒ड्वाना॒शुः सप्तिः॒ पुर॑न्धि॒ऱ्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवास्य यज॑मानस्य वी॒रो जा॑यतां निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् आ ब्रह्म॒न्नेक॑ चत्वारिंशत्