यजुर्वेदYajurvedaTS 7.5.17
अनुवाक 17Anuvaka 17
- १
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ य आ᳚त्म॒दाः पृ॑थि॒व्य॑ग्निरेका॒न्न
- २
च॑त्वारिं॒॒शत्