यजुर्वेदYajurvedaTS 7.5.20
जज्ञि॒ बीजं॒ वर्ष्टा॑ प॒र्जन्यः॒ पक्ता॑ स॒स्यं सु॑पिप्प॒ला ओष॑धयः स्वधिचर॒णेयं सू॑पसद॒नो᳚ऽग्निः स्व॑ध्य॒क्षम॒न्तरि॑क्षं सुपा॒वः पव॑मानः सूपस्था॒ना द्यौः शि॒वम॒सौ तपन्॑, यथापू॒र्वम॑होरा॒त्रे प॑ञ्चद॒शिनो᳚र्धमा॒सास्त्रिं॒॒शिनो॒ मासा᳚ः क्लृ॒प्ता ऋ॒तवः॑ शा॒न्तः सं॑वथ्स॒रः जज्ञि॒ बीज॒मेक॑त्रिंशत्