यजुर्वेदYajurvedaTS 7.5.14
अनुवाक 14Anuvaka 14
- १
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथं॑तराय वास॒न्ताया॒ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वे᳚भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकविं॒॒शाभ्यां᳚ वैरा॒जाभ्यां॑ शार॒दाभ्यां᳚ पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रुः स॑वि॒त्र आ॑तिच्छंद॒साय॑ त्रयस्त्रिं॒॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लोऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुः का॒य एक॑कपालः
- २
अ॒ग्नयेऽदि॑त्या॒ अनु॑मत्यै स॒प्तच॑त्वारिंशत्