यजुर्वेदYajurvedaTS 7.5.13
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञस्यर्द्ध्यै॒ मह्यं॒॒ संन॑त्या अ॒मुष्मै॒ कामा॒यायु॑षे त्वा प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य त्वाराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा कस्त्वाऽ॒ष्टा त्रिं॑शत्