यजुर्वेदYajurvedaTS 7.5.15

अनुवाक 15Anuvaka 15

  1. १

    यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं यद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यथ्संचि॑तेऽ॒ग्नावे॒तानि॑ ह॒वींषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशा᳚न्त उपो॒त्थाय॑ प्र॒जां प॒शून्, यज॑मानस्या॒भि म॑न्येत॒ यथ्संचि॑तेऽ॒ग्नावे॒तानि॑ ह॒वींषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनं॑ शमयति॒ नास्य॑ रु॒द्रोऽशा᳚न्त ४० उपो॒त्थाय॑ प्र॒जां प॒शून॒भि म॑न्यते॒ दश॑ ह॒वींषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भिः॒ स्तोमै᳚ः पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वींषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैनं॒ छन्दो॑भिः॒ स्तोमै᳚ः पृ॒ष्ठैश्चि॑नुते॒ दिशः॑ सुषुवा॒णेना॑ ४१ ऽभि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वींषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या ए॒तया॒ वा इन्द्रं॑ दे॒वा अ॑याजय॒न्तस्मा॑दिन्द्रस॒व ए॒तया॒ मनुं॑ मनु॒ष्या᳚स्तस्मा᳚न्मनुस॒वो यथेन्द्रो॑ दे॒वानां॒ यथा॒ मनु॑र्मनु॒ष्या॑णामे॒वं भ॑वति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः पुरोऽनुवा॒क्या॑ भवन्ति॒ सर्वा॑सां दि॒शाम॒भिजि॑त्यै अशा᳚न्तः सुषुवा॒णेनैक॑