यजुर्वेदYajurvedaTS 7.4.11
अनुवाक 11Anuvaka 11
- १
ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मं द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमं तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॒र्यदे॒तान्थ्स्तोमा॑नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्त्रिणः॑ प्रति॒तिष्ठ॑न्तो यन्ति॒ ते स२ंस्तु॑ता वि॒राज॑ ३५ म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुंधते॒ ते न क्षु॒धार्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुथ्सं॑बाधा इव॒ हि स॒त्त्रिणो᳚ऽग्निष्टो॒माव॒भितः॑ प्र॒धीतावु॒क्थ्या॑ मध्ये॒ नभ्यं॒ तत्तदे॒तत्प॑रि॒यद्दे॑वच॒क्रं यदे॒तेन॑ ३६ षड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्नुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतो᳚ ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सं प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ᳚ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ᳚ द्वाद॒शौ ३७ तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सं प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विंशति॒रहा॑नि॒ सं प॑द्यन्ते॒ चतु॑र्विंशतिरर्धमा॒साः सं॑वथ्स॒रस्तथ्सं॑वथ्स॒रमनु॑ प॒र्याव॑र्त॒न्तेऽप्र॑तिष्ठितः संवथ्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्षी॑यान्प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै सं॑वथ्स॒रस्य॒ ब्राह्म॑णं॒ याव॑न्मा॒सो मा॒सिमा᳚स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति
- २
वि॒राज॑मे॒तेन॑ द्वाद॒शावे॒ताव॒द्वा अ॒ष्टौ च॑