यजुर्वेदYajurvedaTS 7.4.12
अनुवाक 12Anuvaka 12
- १
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीव॒श्छागै᳚ः शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दुं॒बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृथ्स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वावन्तु प्रि॒यं त्वा᳚ प्रि॒याणां॒ वर्षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पतिं॑ हवामहे वसो मम
- २
मे॒षः षट् त्रिं॑शत्