यजुर्वेदYajurvedaTS 7.4.10
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒नां कस्मा॒त्तं प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मं प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम॑नुपू॒र्वमे॒वैतद्य॑ज्ञ क्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत्पिब॑न्त आसते॒ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑नां॒ मुखं॑ मुख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते॒ ते ३३ स२ंस्तु॑ता वि॒राज॑म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राट्थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं य॑न्ति रथंत॒रं दिवा॒ भव॑ति रथंत॒रं नक्त॒मित्या॑हुर्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मं बृ॒हत्तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि त एका॒न्न पं॑चा॒शच्च॑