यजुर्वेदYajurvedaTS 7.5.9
अनुवाक 9Anuvaka 9
- १
अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताभ्य॒ इला᳚न्दे॒नेरां॒ लूता॒मवा॑रुंध॒ यद॒र्क्यं॑ भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त॒ इला᳚न्दं भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒ लूता॒मव॑ रुंधते॒ तस्मा॒द्यां समां॑ स॒त्त्रं समृ॑द्धं॒ क्षोधु॑का॒स्तां समां᳚ प्र॒जा इष॒ग्ग्॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ यां समां॒ व्यृ॑द्ध॒मक्षो॑धुका॒स्तां समां᳚ प्र॒जा २९ न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑त उत्क्रो॒दं कु॑र्वते॒ यथा॑ ब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॒र्वत॑ ए॒वमे॒व तद्यज॑माना देवब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॑र्वत॒ इष॒मूर्ज॑मा॒त्मन्दधा॑ना वा॒णः श॒तत॑न्तुर्भवति श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जिं धा॑व॒न्त्यन॑भिजितस्या॒भिजि॑त्यै दुन्दु॒भीन्थ्स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व ३० वाच॒मव॑ रुंधते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमां वाक्प्रवि॑ष्टा॒ तामे॒वाव॑ रुंध॒तेऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑सां वा॒चामव॑रुद्ध्या आ॒र्द्रे चर्म॒न्व्याय॑च्छेते इन्द्रि॒यस्याव॑रुद्ध्या॒ आन्यः क्रोश॑ति॒ प्रान्यः शं॑सति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्थ्स यः प्र॒शंस॑ति पू॒तेष्वे॒वान्नाद्यं॑ दधा॒त्यृषि॑कृतं च॒ ३१ वा ए॒ते दे॒वकृ॑तं च॒ पूर्वै॒र्मासै॒रव॑ रुंधते॒ यद्भू॑ते॒च्छदां॒॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒ यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये सं॑वथ्स॒रमु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ संभ॑वत॒स्तेनै॒व मि॑थु॒नान्न य॑न्ति व्यृ॑द्ध॒मक्षो॑धुका॒स्तां समां᳚ प्र॒जाः प॑र॒मामे॒व
- २
च॑ त्रिं॒॒शच्च॑