यजुर्वेदYajurvedaTS 7.5.8
अनुवाक 8Anuvaka 8
- १
दे॒वानां॒ वा अन्तं॑ ज॒ग्मुषा॑मिंद्रि॒यं वी॒र्य॑मपा᳚क्राम॒त्तत्क्रो॒शेनावा॑रुंधत॒ तत्क्रो॒शस्य॑ क्रोश॒त्वं यत्क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते᳚ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्तं॑ ग॒त्वेंद्रि॒यं वी॒र्य॑मव॑ रुंधते स॒त्त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते᳚ स्तुवन्त्य॒ग्निमे॒वोप॑द्र॒ष्टारं॑ कृ॒त्वर्द्धि॒मुप॑ यन्ति प्र॒जाप॑ते॒र्॒ हृद॑येन हवि॒र्धानेऽ॒न्तः स्तु॑वन्ति प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒थ्सद॑सः २४ स्तुव॒न्त्यनु॑श्लोकेन प॒श्चाद्य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति न॒वभि॑रध्व॒र्युरुद्गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेंद्रि॒यं द॑ध॒त्यप्र॑तिहृताभि॒रुद्गा॑यति॒ तस्मा॒त्पुरु॑षः॒ सर्वा᳚ण्य॒न्यानि॑ शी॒र्॒ष्णोऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न प॑ञ्चद॒शं र॑थंत॒रं भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधते सप्तद॒शं २५ बृ॒हद॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविं॒॒शं भ॒द्रं द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजा᳚त्यै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सोऽ॑कामयता॒साम॒हं रा॒ज्यं परी॑या॒मिति॒ तासां॑ राज॒नेनै॒व रा॒ज्यं पर्यै॒त्तद्रा॑ज॒नस्य॑ राजन॒त्वं यद्रा॑ज॒नं भव॑ति प्र॒जाना॑मे॒व तद्यज॑माना रा॒ज्यं परि॑ यन्ति पञ्चविं॒॒शं भ॑वति प्र॒जाप॑ते॒ २६ राप्त्यै॑ प॒ञ्चभि॒स्तिष्ठ॑न्तः स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधते पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्येकै॑क॒यास्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्यं॒॒ संभ॑रन्ति॒ ताभि॑रुद्गा॒तोद्गा॑यति दि॒ग्भ्य ए॒वान्नाद्यं॑ २७ सं॒भृत्य॒ तेज॑ आ॒त्मन्द॑धते॒ तस्मा॒देकः॑ प्रा॒णः सर्वा॒ण्यङ्गा᳚न्यव॒त्यथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ्छिर॑ उत्त॒मं कु॑रु॒त ए॒वमे॒व तद्यज॑मानाः प्र॒जाना॑मुत्त॒मा भ॑वन्त्यास॒न्दीमु॑द्गा॒ताऽरो॑हति॒ साम्रा᳚ज्यमे॒व ग॑च्छन्ति प्ले॒ङ्खं होता॒ नाक॑स्यै॒व पृ॒ष्ठं रो॑हन्ति कू॒र्चाव॑ध्व॒र्युर्ब्र॒ध्नस्यै॒व वि॒ष्टपं॑ गच्छन्त्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वं प्रति॑ तिष्ठ॒न्त्यथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै सद॑सः
- २
सप्तद॒शं प्र॒जाप॑तेर्गायति दि॒ग्भ्य ए॒वान्नाद्यं॒ प्रत्येका॑दश च