यजुर्वेदYajurvedaTS 7.4.20
भूर्भुवः॒सुव॒र्वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छंद॑सा रु॒द्रास्स्त्वा᳚ञ्जन्तु॒ त्रैष्टु॑भेन॒ छंद॑सादि॒त्यास्त्वा᳚ञ्जन्तु॒ जाग॑तेन॒ छंद॑सा॒ यद्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुवं॑ प्रि॒याम् ।ए॒त२ं स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः ॥ लाजी ३ ञ्छाची ३ न्, यशो॑ म॒मा ४ म् ।य॒व्यायै॑ ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते ॥ यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।रोच॑न्ते रोच॒ना दि॒वि ॥ यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ ।शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ ।समु॒षद्भि॑रजायथाः ॥ ७। ४। २०॥ ब्र॒ध्नं पंच॑ विंशतिश्च