यजुर्वेदYajurvedaTS 7.4.19

अनुवाक 19Anuvaka 19

  1. १

    अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ नयति॒ कश्च॒न ।स॒ सस्त्य॑श्व॒कः ॥ सुभ॑गे॒ कांपी॑लवासिनि सुव॒र्गे लो॒के सं प्रोर्ण्वा॑थाम् ।आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ।तौ स॒ह च॒तुरः॑ प॒दः सं प्र सा॑रयावहै ।वृषा॑ वां रेतो॒धा रेतो॑ दधा॒तूथ्स॒क्थ्यो᳚र्गृ॒दं धे᳚ह्यं॒जिमुदं॑जि॒मन्व॑ज ।यः स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑सां ४८ बिल॒धाव॑नः ।प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑ ।य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिं प॒राव॑धीत् ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न ।स॒सस्त्य॑श्व॒कः ॥ ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रं गि॒रावि॑व ।अथा᳚स्या॒ मध्य॑मेधतां शी॒ते वाते॑ पु॒नन्नि॑व ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न ।स॒सस्त्य॑श्व॒कः ॥ यद्ध॑रि॒णी यव॒मत्ति॒ न ४९ पु॒ष्टं प॒शु म॑न्यते ।शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न ।स॒सस्त्य॑श्व॒कः ॥ इ॒यं य॒का श॑कुन्ति॒काहल॒मिति॒ सर्प॑ति ।आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न ।स॒सस्त्य॑श्व॒कः ॥ मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः ।५० प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तंसयत् ॥ द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।सु॒र॒भि नो॒ मुखा॑ कर॒त्प्रण॒ आयूं॑षि तारिषत् ॥ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।आपो॑ ज॒नय॑था च नः ॥ ७। ४। १९॥ आ॒सा॒मत्ति॒ न रो॑हतो॒ जिन्व॑थ च॒त्वारि॑ च