यजुर्वेदYajurvedaTS 7.5.6
अनुवाक 6Anuvaka 6
- १
ष॒ड॒हैर्मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्ति षड॒हैर्हि मासा᳚न्थ्सं॒ पश्य॑न्त्यर्धमा॒सैर्मासा᳚न्थ्सं॒ पाद्याऽह॒रुथ्सृ॑जन्त्यर्धमा॒सैर्हि मासा᳚न्थ्सं॒ पश्य॑न्त्यमावा॒स्य॑या॒ मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्त्यमावा॒स्य॑या॒ हि मासा᳚न्थ्सं॒ पश्य॑न्ति पौर्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्ति पौर्णमा॒स्या हि मासा᳚न्थ्सं॒ पश्य॑न्ति॒ यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒ यः पू॒र्णादु॒दच॑ति १६ प्रा॒णम॑स्मि॒न्थ्स द॑धाति॒ यत्पौ᳚र्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑ संवथ्स॒रायै॒व तत्प्रा॒णं द॑धति॒ तदनु॑ स॒त्त्रिणः॒ प्राण॑न्ति॒ यदह॒र्नोथ्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒वं सं॑वथ्स॒रो वि प॑ते॒दार्ति॒मार्च्छे॑यु॒र्यत्पौ᳚र्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑ संवथ्स॒रायै॒व तदु॑दा॒नं द॑धति॒ तदनु॑ स॒त्त्रिण॒ उ १७ द॑नन्ति॒ नार्ति॒मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वानां॑ सु॒तो यत्पौ᳚र्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्य॒ज्ञेन॑ य॒ज्ञं प्र॒त्यव॑रोहन्ति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यत्ष॑ड॒ह सं॑ततं॒॒ सन्त॒मथाह॑रुथ्सृ॒जन्ति॑ प्राजाप॒त्यं प॒शुमाल॑भन्ते प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञं सं त॑न्वन्ति॒ यन्ति॒ वा ए॒ते सव॑ना॒द्येऽह॑ १८ रुथ्सृ॒जन्ति॑ तु॒रीयं॒ खलु॒ वा ए॒तथ्सव॑नं॒ यथ्सा᳚न्ना॒य्यं यथ्सा᳚न्ना॒य्यं भव॑ति॒ तेनै॒व सव॑ना॒न्नय॑न्ति समुप॒हूय॑ भक्षयन्त्ये॒तथ्सो॑मपीथा॒ ह्ये॑तर्हि॑ यथायत॒नं वा ए॒तेषां॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ येऽह॑रुथ्सृ॒जन्त्य॑नुसव॒नं पु॑रो॒डाशा॒न्निर्व॑पन्ति यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुंधतेऽ॒ष्टाक॑पालान् प्रातः सव॒न एका॑दशकपाला॒न्माध्यं॑दिने॒ सव॑ने॒ द्वाद॑शकपालाग्स्तृतीयसव॒ने छन्दाग्॑स्ये॒वाप्त्वाव॑ रुंधते वैश्वदे॒वं च॒रुं तृ॑तीयसव॒ने निर्व॑पन्ति वैश्वदे॒वं वै तृ॑तीयसव॒नं तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति
- २
उ॒दच॒त्युद्येऽह॑रा॒प्त्वा पंच॑दश च