यजुर्वेदYajurvedaTS 7.4.15
अनुवाक 15Anuvaka 15
- १
यो अर्व॑न्तं॒ जिघां॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः ।प॒रो मर्तः॑ प॒रः श्वा ॥ अ॒हं च॒ त्वं च॑ वृत्रह॒न्थ्सं ब॑भूव स॒निभ्य॒ आ ।अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒॒ रजां॑सि ।स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते᳚ वि॒वि॒द॒
- २
द्वे च॑